श्रीमद्भगवद्गीतातात्पर्यम् | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीतातात्पर्यम् - श्लोकाः

  1. अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।युयुधानो विराटश्च द्रुपदश्च महारथः॥४ ॥
  2. अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२० ॥
  3. अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥४१ ॥
  4. अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठरः ।नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥१६ ॥
  5. अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९ ॥
  6. अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥१० ॥
  7. अयनेषु च सर्वेषु यथाभागमवस्थिताः ।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥११ ॥
  8. अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते॥७ ॥
  9. अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५ ॥
  10. आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४ ॥
  11. उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४ ॥
  12. एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ ॥
  13. एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४ ॥
  14. एवमुक्त्वाऽर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७ ॥
  15. कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥३९ ॥
  16. काश्यश्च परमेष्वासः शिखण्डी च महारथः ।धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७ ॥
  17. कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥४० ॥
  18. कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।
  19. गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३० ॥
  20. ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥१३ ॥
  21. ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४ ॥
  22. तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥२६ ॥
  23. तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७ ॥
  24. तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१२ ॥
  25. दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२ ॥
  26. दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ ॥
  27. द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८ ॥
  28. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१ ॥
  29. धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५ ॥
  30. न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥३२ ॥
  31. निमित्तानि च पश्यामि विपरीतानि केशव ।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥३१ ॥
  32. निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ।पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६ ॥
  33. पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३ ॥
  34. पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।प्रौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥१५ ॥
  35. भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥८ ॥
  36. भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥२५ ॥
  37. यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥४६ ॥
  38. यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८ ॥
  39. यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् ।कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥२२ ॥
  40. युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६ ॥
  41. येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३ ॥
  42. योत्स्यमानानवेक्षेऽहं य एतेत्र समागताः ।धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥२३ ॥
  43. श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२७ ॥
  44. स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९ ॥
  45. सङ्करो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२ ॥
  46. सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९ ॥
  47. हृषीकेशं तदा वाक्यमिदमाह महीपते ।
  48. अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते॥३४ ॥
  49. अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतस्थाणुरचलोऽयं सनातनः॥२४ ॥
  50. अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥३३ ॥
  51. अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथाऽपि त्वं महाबाहो नैनं शोचितुमर्हसि॥२६ ॥
  52. अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोऽप्रमेयस्य तस्माद् युद्ध्यस्व भारत॥१८ ॥
  53. अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥३६ ॥
  54. अविनाशि तु तद् विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७ ॥
  55. अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८ ॥
  56. अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५ ॥
  57. अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥११ ॥
  58. आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ ७० ॥
  59. आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः ।आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद नचैव कश्चित्॥ २९ ॥
  60. इंद्रियाणां हि चरतां यन्मनोऽनुविधीयते ।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥६७ ॥
  61. एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९ ॥
  62. एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥३९ ॥
  63. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति॥७२ ॥
  64. कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥४ ॥
  65. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥५१ ॥
  66. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥४७ ॥
  67. कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३ ॥
  68. कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वा धर्मसम्मूढचेताः ।यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥७ ॥
  69. कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥२ ॥
  70. क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् प्र(वि)नश्यति ॥६३ ॥
  71. क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥३ ॥
  72. गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वाऽर्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान्॥५ ॥
  73. जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥२७ ॥
  74. तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥१ ॥
  75. तमुवाच हृषीकेशः प्रहसन्निव भारत ।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१० ॥
  76. तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥६८ ॥
  77. तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥६१ ॥
  78. त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥४५ ॥
  79. दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥५६ ॥
  80. दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥४९ ॥
  81. देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥१३ ॥
  82. देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३० ॥
  83. ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते॥६२ ॥
  84. न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः ।यानेव हत्वा न जिजीविषाम–स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥६ ॥
  85. न जायते म्रियते वा कदाचिन्ना(ऽ)यं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ २० ॥
  86. न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।न चैव न भविष्यामः सर्वे वयमतः परम्॥१२ ॥
  87. न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिंद्रियाणाम् ।अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्॥८ ॥
  88. नासतो विद्यतेभावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥१६ ॥
  89. नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥६६ ॥
  90. नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० ॥
  91. प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५ ॥
  92. प्रसादे सर्वदुःखानां हानिरस्योपजायते ।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति॥६५ ॥
  93. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥५० ॥
  94. भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः ।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥३५ ॥
  95. भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४ ॥
  96. मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥१४ ॥
  97. य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९ ॥
  98. यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोमृतत्वाय कल्पते॥१५ ॥
  99. यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् ।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७ ॥
  100. यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।इंद्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥६० ॥
  101. यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२ ॥
  102. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥५८ ॥
  103. यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥३२ ॥
  104. या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९ ॥
  105. यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२ ॥
  106. यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६ ॥
  107. योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥४८ ॥
  108. रागद्वेषवियुक्तैस्तु विषयानिंद्रियैश्चरन् ।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥६४ ॥
  109. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणितथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥ २२ ॥
  110. विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥५९ ॥
  111. विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥७१ ॥
  112. वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥२१ ॥
  113. व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥४१ ॥
  114. श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला ॥समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥ ५३ ॥
  115. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥३८ ॥
  116. स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४ ॥
  117. स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥३१ ॥
  118. हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥३७ ॥
  119. ‘नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।नचैनं क्लेदयन्त्यापो न शोषयति मारुतः॥२३ ॥
  120. अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३६ ॥
  121. अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥१४ ॥
  122. आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥३९ ॥
  123. इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ॥तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ ३४ ॥
  124. इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः ।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥४२ ॥
  125. इंद्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते ।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥४० ॥
  126. इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२ ॥
  127. उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥२४ ॥
  128. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।अघायुरिंद्रियारामो मोघं पार्थ स जीवति॥१६ ॥
  129. एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥४३ ॥
  130. कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥१५ ॥
  131. कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२० ॥
  132. कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् ।इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥६ ॥
  133. काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥३७ ॥
  134. ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।तत् किं कर्मणि घोरे मां नियोजयसि केशव॥१ ॥
  135. तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥२८ ॥
  136. तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥४१ ॥
  137. तस्मादसक्तः सततं कार्यं कर्म समाचर ।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥१९ ॥
  138. देवान् भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमावाप्स्यथ॥११ ॥
  139. धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥३८ ॥
  140. न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।न च संन्यसनादेव सिद्धिं समधिगच्छति॥४ ॥
  141. न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्॥२६ ॥
  142. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२ ॥
  143. न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥५ ॥
  144. नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥८ ॥
  145. नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८ ॥
  146. प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥२७ ॥
  147. प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥२९ ॥
  148. मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥३० ॥
  149. यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥१३ ॥
  150. यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥९ ॥
  151. यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३ ॥
  152. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥२१ ॥
  153. यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥१७ ॥
  154. यस्त्विन्द्रियाणि मनसा नियम्याऽरभतेऽर्जुन ।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥७ ॥
  155. ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥३२ ॥
  156. ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३१ ॥
  157. व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥२ ॥
  158. श्रीभगवानुवाच
  159. श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३५ ॥
  160. सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्॥२५ ॥
  161. सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥३३ ॥
  162. सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥१० ॥
  163. अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥६ ॥
  164. अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४० ॥
  165. अपरं भवतो जन्म परं जन्म विवस्वतः ।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥४ ॥
  166. अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥३० ॥
  167. अपाने जुह्वनि प्राणं प्राणेऽपानं तथाऽपरे ।प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥२९ ॥
  168. अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥३६ ॥
  169. इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥१ ॥
  170. एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥१५ ॥
  171. एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।स कालेनेह महता योगो नष्टः परन्तप॥२ ॥
  172. एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।कर्मजान्विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥३२ ॥
  173. कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥१७ ॥
  174. कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥१८ ॥
  175. काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥१२ ॥
  176. किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६ ॥
  177. गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥२३ ॥
  178. चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥१३ ॥
  179. जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥९ ॥
  180. तद्विद्धि प्रणिपातेन परिप्रश्रेन सेवया ।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः॥३४ ॥
  181. तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥४२ ॥
  182. त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो(ऽ)निराश्रयः ।कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः॥२० ॥
  183. दैवमेवापरे यज्ञं योगिनः पर्युपासते ।ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥२५ ॥
  184. द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ।स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥२८ ॥
  185. न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।इति मां योऽभिजानाति कर्मभिर्न स बद्ध्यते॥१४ ॥
  186. न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥३८ ॥
  187. निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥२१ ॥
  188. परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥८ ॥
  189. बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥५ ॥
  190. ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना॥२४ ॥
  191. यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥३५ ॥
  192. यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥३१ ॥
  193. यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा॥३७ ॥
  194. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥७ ॥
  195. यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते॥२२ ॥
  196. यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥१९ ॥
  197. ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥११ ॥
  198. योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥४१ ॥
  199. वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।बहवो ज्ञानतपसा पूता मद्भावमागताः॥१० ॥
  200. श्रद्धावाँल्लभते ज्ञानं मत्परः संयतेन्द्रियः ।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥३९ ॥
  201. श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥३३ ॥
  202. श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति ।शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति॥२६ ॥
  203. स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥३ ॥
  204. सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे ।आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥२७ ॥
  205. इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥१९ ॥
  206. कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥२६ ॥
  207. कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥११ ॥
  208. ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥१६ ॥
  209. ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥३ ॥
  210. तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥१७ ॥
  211. न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥१४ ॥
  212. न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः॥२० ॥
  213. नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥१५ ॥
  214. नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।पश्यन् शृृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥८ ॥
  215. प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि ।इंद्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९ ॥
  216. बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥२१ ॥
  217. ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥१० ॥
  218. भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥२९ ॥
  219. यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८ ॥
  220. यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥५ ॥
  221. युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।अयुक्तः कामकारेण फले सक्तो निबध्यते॥१२ ॥
  222. ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२ ॥
  223. योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रियः ।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥ ७ ॥
  224. योऽन्तः सुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥२४ ॥
  225. लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।छिन्नद्वैधा(ऽऽ)यतात्मानः सर्वभूतहिते रताः॥२५ ॥
  226. विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥१८ ॥
  227. शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥२३ ॥
  228. संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥१ ॥
  229. संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते॥२ ॥
  230. संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥६ ॥
  231. सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥१३ ॥
  232. साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥४ ॥
  233. स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥२७ ॥
  234. अथवा योगिनामेव कुले भवति धीमताम् ।एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥४२ ॥
  235. अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥१ ॥
  236. अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।अप्राप्य योगसंसिदि्धं कां गतिं कृष्ण गच्छति॥३७ ॥
  237. असंयतात्मना योगो दुष्प्राप इति मे मतिः ।वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥३६ ॥
  238. असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥३५ ॥
  239. आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।सुखं वा यदि वा दुःखं स योगी परमो मतः॥३२ ॥
  240. आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।योगारूढस्य तस्यैव शमः कारणमुच्यते॥३ ॥
  241. उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥५ ॥
  242. एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते॥३९ ॥
  243. कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥३८ ॥
  244. चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥३४ ॥
  245. जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥७ ॥
  246. ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥८ ॥
  247. तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।स निश्चयेन योक्तव्यो योगोनिर्विण्णचेतसा॥२३ ॥
  248. तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥४३ ॥
  249. तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः ।उपविश्यासने युञ्ज््याद्योगमात्मविशुद्धये॥१२ ॥
  250. तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥४६ ॥
  251. नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥१६ ॥
  252. पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥४० ॥
  253. पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥४४ ॥
  254. प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥४५ ॥
  255. प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥२७ ॥
  256. प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।मनः संयम्य मच्चित्तो युक्त आसीत मत्परः॥१४ ॥
  257. प्राप्य पुण्यकृतान् लोकानुषित्वा शाश्वतीः समाः ।शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥४१ ॥
  258. बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः ।अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥६ ॥
  259. यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।यस्मिन्स्थितो न दुःखेन गुरुणाऽपि विचाल्यते॥२२ ॥
  260. यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥२ ॥
  261. यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥२६ ॥
  262. यत्रोपरमते चित्तं निरुद्धं योगसेवया ।यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥२० ॥
  263. यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥१९ ॥
  264. यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥१८ ॥
  265. यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते ।सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥४ ॥
  266. युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥१७ ॥
  267. युञ्जन् एवं सदाऽऽत्मानं योगी विगतकल्मषः ।सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥२८ ॥
  268. युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः ।शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥१५ ॥
  269. यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥३० ॥
  270. योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥४७ ॥
  271. योगी युञ्जीत सततमात्मानं रहसि स्थितः ।एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥१० ॥
  272. योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्॥३३ ॥
  273. शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२५ ॥
  274. शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम्॥११ ॥
  275. संङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।मनसैवेंद्रियग्रामं विनियम्य समन्ततः॥२४ ॥
  276. समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥१३ ॥
  277. सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥२९ ॥
  278. सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥३१ ॥
  279. सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥२१ ॥
  280. सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥९ ॥
  281. अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३ ॥
  282. अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहो ययेदं धार्यते जगत्॥५ ॥
  283. अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४ ॥
  284. इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।सर्वभूतानि संमोहं सर्गे यान्ति परन्तप॥२७ ॥
  285. उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८ ॥
  286. एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६ ॥
  287. कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥२० ॥
  288. चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥१६ ॥
  289. जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥२९ ॥
  290. ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥२ ॥
  291. तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥१७ ॥
  292. त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३ ॥
  293. दैवी ह्येषा गुणमयी मम माया दुरत्यया ।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति हि (ते)॥१४ ॥
  294. न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः॥१५ ॥
  295. नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥२५ ॥
  296. पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥९ ॥
  297. बलं बलवतां (चाहं) अस्मि कामरागविवर्जितम् ।धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥११ ॥
  298. बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते ।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥
  299. बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥१० ॥
  300. भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४ ॥
  301. मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७ ॥
  302. मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३ ॥
  303. मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥१ ॥
  304. ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि॥१२ ॥
  305. येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥२८ ॥
  306. यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥२१ ॥
  307. रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥८ ॥
  308. वेदाहं समतीतानि वर्तमानानि चार्जुन ।भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६ ॥
  309. स तया श्रद्धया युक्तस्तस्याराधनमीहते ।लभते च ततः कामान्मयैव विहितान्हि तान्॥२२ ॥
  310. साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥३० ॥
  311. अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः॥३ ॥
  312. अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥२४ ॥
  313. अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥ ४ ॥
  314. अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२ ॥
  315. अनन्यचेताः सततं यो मां स्मरति नित्यशः ।तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥१४ ॥
  316. अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥५ ॥
  317. अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८ ॥
  318. अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥१८ ॥
  319. अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥२१ ॥
  320. आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६ ॥
  321. ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३ ॥
  322. कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः।सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥॥ ९ ॥
  323. किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥१ ॥
  324. तस्मात्सर्वेषु कालेषु मामनुस्मर युद्ध्य च ।मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥७ ॥
  325. धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥२५ ॥
  326. नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७ ॥
  327. परस्तस्मात्तुभावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२० ॥
  328. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥२२ ॥
  329. प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥॥ १० ॥
  330. भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥१९ ॥
  331. मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५ ॥
  332. यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।तं तमेवैति कौन्तेय सदा तद्भावभावितः॥६ ॥
  333. यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३ ॥
  334. यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥॥ ११ ॥
  335. वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् । ॥२८ ॥
  336. शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः॥२६ ॥
  337. सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।मूध््नर्याधायात्मनः प्राणमास्थितो योगधारणाम्॥१२ ॥
  338. सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥१७ ॥
  339. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥२२ ॥
  340. अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥३० ॥
  341. अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम्॥११ ॥
  342. अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥३ ॥
  343. अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्॥१६ ॥
  344. अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥२४ ॥
  345. इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१ ॥
  346. किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥३३ ॥
  347. क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१ ॥
  348. गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥१८ ॥
  349. ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥१५ ॥
  350. तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥
  351. ते तं भुक्त्वा स्वर्गलोकं विशालंक्षीणे पुण्ये मर्त्यलोकं विशन्ति ।एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामा लभन्ते॥ २१ ॥
  352. त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान्॥ २० ॥
  353. न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥५ ॥
  354. न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।उदासीनवदासीनमसक्तं तेषु कर्मसु॥९ ॥
  355. पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥२६ ॥
  356. पिताऽहमस्य जगतो माता धाता पितामहः ।वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च॥१७ ॥
  357. प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥८ ॥
  358. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥३४ ॥
  359. मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥४ ॥
  360. मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते॥१० ॥
  361. महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥१३ ॥
  362. मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥३२ ॥
  363. मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१२ ॥
  364. यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्॥२७ ॥
  365. यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥६ ॥
  366. यान्ति देवव्रता देवान् पितॄन् यान्ति पितॄव्रताः ।भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥॥ २५ ॥
  367. येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥२३ ॥
  368. राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥२ ॥
  369. शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥२८ ॥
  370. सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥१४ ॥
  371. समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥
  372. सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥७ ॥
  373. अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥३३ ॥
  374. अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्॥४२ ॥
  375. अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।पितॄणामर्यमा चास्मि यमः संयमतामहम्॥२९ ॥
  376. अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६ ॥
  377. अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥८ ॥
  378. अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।अहमादिश्च मध्यं च भूतानामन्त एव च॥२० ॥
  379. अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥५ ॥
  380. आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥२१ ॥
  381. आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥२८ ॥
  382. आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥१३ ॥
  383. उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥२७ ॥
  384. एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥७ ॥
  385. कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया॥१७ ॥
  386. तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥१० ॥
  387. तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥११ ॥
  388. दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥३८ ॥
  389. द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥३६ ॥
  390. न मे विदुः सुरगणाः प्रभवं न महर्षयः ।अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२ ॥
  391. नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥४० ॥
  392. परं ब्रह्म परं धाम पवित्रं परमं भवान् ।पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥१२ ॥
  393. पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥३१ ॥
  394. पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥२४ ॥
  395. प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥३० ॥
  396. बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।सुखं दुःखं भवोऽभावो भयं चाभयमेव च॥४ ॥
  397. बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः॥३५ ॥
  398. भूय एव महाबाहो शृृणु मे परमं वचः ।यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥१ ॥
  399. मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥९ ॥
  400. महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ ॥
  401. महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥२५ ॥
  402. मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् ।कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४ ॥
  403. यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।न तदस्ति विना यत्स्यात् मया भूतं चराचरम्॥३९ ॥
  404. यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्॥४१ ॥
  405. यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥३ ॥
  406. रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥२३ ॥
  407. वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥१६ ॥
  408. विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।भूयः कथय तृप्तिर्हि शृृण्वतो नास्ति मेऽमृतम्॥१८ ॥
  409. वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।मुनीनामप्यहं व्यासः कवीनामुशना कविः॥३७ ॥
  410. वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥२२ ॥
  411. सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥३२ ॥
  412. सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः॥१४ ॥
  413. स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।भूतभावन भूतेश देवदेव जगत्पते॥१५ ॥
  414. हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥१९ ॥
  415. अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास॥ ४५ ॥
  416. अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥ १९ ॥
  417. अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥ १६ ॥
  418. अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥१० ॥
  419. अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥ २६ ॥
  420. अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥ २१ ॥
  421. आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥ ३१ ॥
  422. इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥ ५० ॥
  423. इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥७ ॥
  424. एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥ ३५ ॥
  425. एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।दर्शयामास पार्थाय परमं रूपमैश्वरम्॥९ ॥
  426. एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ।द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥३ ॥
  427. कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्॥ ३७ ॥
  428. कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥ ३२ ॥
  429. किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥ ४६ ॥
  430. किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्॥ १७ ॥
  431. ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४ ॥
  432. तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥१३ ॥
  433. तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥ ३३ ॥
  434. तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥ ४४ ॥
  435. त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥ १८ ॥
  436. त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥ ३८ ॥
  437. दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥ २५ ॥
  438. दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥१२ ॥
  439. दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम्॥११ ॥
  440. दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥५१ ॥
  441. द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ २० ॥
  442. द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥ ३४ ॥
  443. न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥८ ॥
  444. न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥ ४८ ॥
  445. नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥ २४ ॥
  446. नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥ ४० ॥
  447. नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥५३ ॥
  448. पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥५ ॥
  449. पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥६ ॥
  450. पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वान् उरगांश्च दिव्यान्॥ १५ ॥
  451. पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥ ४३ ॥
  452. भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥५४ ॥
  453. भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥२ ॥
  454. मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥५५ ॥
  455. मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥१ ॥
  456. मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥४ ॥
  457. मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥ ४७ ॥
  458. मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम् ।व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥ ४९ ॥
  459. यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्॥ ४२ ॥
  460. यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥ २८ ॥
  461. यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः॥ २९ ॥
  462. रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥ २२ ॥
  463. रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥ २३ ॥
  464. लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान्वदनैर्ज्वलद्भिः ।तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥ ३० ॥
  465. वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ २७ ॥
  466. वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते॥ ३९ ॥
  467. सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि॥ ४१ ॥
  468. सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥५२ ॥
  469. स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ ३६ ॥
  470. अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥९ ॥
  471. अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥११ ॥
  472. अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥१३ ॥
  473. अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥१६ ॥
  474. अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।मदर्थमपि कर्माणि कुर्वन्सिदि्धमवाप्स्यसि॥१० ॥
  475. एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१ ॥
  476. क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥५ ॥
  477. तुल्यनिन्दास्तुनिर्मौनी सन्तुष्टो येन केनचित् ।अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥१९ ॥
  478. तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।भवामि न चिरात्पार्थ मय्यावेशितचेतसाम्॥७ ॥
  479. मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥२ ॥
  480. मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥८ ॥
  481. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥१५ ॥
  482. ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ २० ॥
  483. ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।अनन्येनैव योगेन मां ध्यायन्त उपासते॥६ ॥
  484. ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥३ ॥
  485. यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥१७ ॥
  486. श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते ।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥१२ ॥
  487. सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥१४ ॥
  488. सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥४ ॥
  489. समः शत्रौ च मित्रे च तथा मानापमानयोः ।शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥१८ ॥
  490. अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥१२ ॥
  491. अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः ।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥३२ ॥
  492. अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥२६ ॥
  493. अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥८ ॥
  494. अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥१७ ॥
  495. असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥१० ॥
  496. इंद्रियार्थेषु वैराग्यमनहङ्कार एव च ।जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥९ ॥
  497. इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥७ ॥
  498. इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥१९ ॥
  499. इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥२ ॥
  500. उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः॥२३ ॥
  501. ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥५ ॥
  502. कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥२१ ॥
  503. क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥३५ ॥
  504. क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥३ ॥
  505. ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥१३ ॥
  506. ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥१८ ॥
  507. तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥४ ॥
  508. ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥२५ ॥
  509. पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥२२ ॥
  510. प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥१ ॥
  511. प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥२० ॥
  512. प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति॥३० ॥
  513. बहिरन्तश्च भूतानामचरं चरमेव च ।सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥१६ ॥
  514. मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।विविक्तदेशसेवित्वमरतिर्जनसंसदि॥११ ॥
  515. महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।इंद्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥६ ॥
  516. य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥२४ ॥
  517. यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥३४ ॥
  518. यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥३३ ॥
  519. यदा भूतपृथग्भावमेकस्थमनुपश्यति ।तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥३१ ॥
  520. यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ॥२७ ॥
  521. समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥२९ ॥
  522. समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥२८ ॥
  523. सर्वतः पाणिपादं तत्सर्वतोक्षिऽशिरोमुखम् ।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥१४ ॥
  524. सर्वेंद्रियगुणाभासं सर्वेन्द्रियविवर्जितं ।असक्तं सर्वभृच्चैव(भुक्चैव) निर्गुणं गुणभोक्तृ च॥१५ ॥
  525. अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥१३ ॥
  526. इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥२ ॥
  527. उदासीनवदासीनो गुणैर्यो न विचाल्यते ।गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥२३ ॥
  528. ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥१८ ॥
  529. कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥१६ ॥
  530. कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो ।किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥२१ ॥
  531. गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥२० ॥
  532. तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥६ ॥
  533. तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥८ ॥
  534. नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥१९ ॥
  535. परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥१ ॥
  536. प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२ ॥
  537. ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७ ॥
  538. मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।सम्भवः सर्वभूतानां ततो भवति भारत॥३ ॥
  539. मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥२६ ॥
  540. मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥२५ ॥
  541. यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥१४ ॥
  542. रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।तथा प्रलीनस्तमसि मूढयोनिषु जायते॥१५ ॥
  543. रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥१० ॥
  544. रजो रागात्मकं विदि्ध तृष्णासङ्गसमुद्भवम् ।तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥७ ॥
  545. लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥१२ ॥
  546. सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥५ ॥
  547. सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥९ ॥
  548. सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥१७ ॥
  549. समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥२४ ॥
  550. सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत॥११ ॥
  551. सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥४ ॥
  552. अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
  553. अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥१४ ॥
  554. इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥२० ॥
  555. उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥१० ॥
  556. उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥१७ ॥
  557. ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१ ॥
  558. गामाविश्य च भूतानि धारयाम्यहमोजसा ।पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥१३ ॥
  559. ततः परं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी॥ ४ ॥
  560. द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥१६ ॥
  561. न तद्भासयते सूर्यो न शशाङ्को न पावकः ।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥६ ॥
  562. न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा॥ ३ ॥
  563. निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्॥ ५ ॥
  564. ममैवांशो जीवलोके जीवभूतः सनातनः ।मनःषष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति॥७ ॥
  565. यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥११ ॥
  566. यदादित्यगतं तेजो जगद् भासयतेऽखिलम् ।यच्चन्द्रमासि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥१२ ॥
  567. यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८ ॥
  568. यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।स सर्वविद्भजति मां सर्वभावेन भारत॥१९ ॥
  569. शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥८ ॥
  570. श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।अधिष्ठाय मनश्चायं विषयानुपसेवते॥९ ॥
  571. सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्॥ १५ ॥
  572. अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥१६ ॥
  573. अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥ १ ॥
  574. असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।अपरस्परसम्भूतं किमन्यत्कामहैतुकम्॥८ ॥
  575. असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी॥१४ ॥
  576. अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥१८ ॥
  577. अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम्॥२ ॥
  578. आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥१५ ॥
  579. आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥१७ ॥
  580. आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्॥१२ ॥
  581. आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥२० ॥
  582. इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥१३ ॥
  583. एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥९ ॥
  584. एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥२२ ॥
  585. काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः॥१० ॥
  586. चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।कामोपभोगपरमा एतावदिति निश्चिताः॥११ ॥
  587. तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥२४ ॥
  588. तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥१९ ॥
  589. तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।भवन्ति सम्पदं दैवीमभिजातस्य भारत॥३ ॥
  590. त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥२१ ॥
  591. दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥४ ॥
  592. दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥५ ॥
  593. द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृृणु॥६ ॥
  594. प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥७ ॥
  595. यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥२३ ॥
  596. अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥२२ ॥
  597. अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥१५ ॥
  598. अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥११ ॥
  599. अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥१२ ॥
  600. अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥५ ॥
  601. अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥२८ ॥
  602. आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८ ॥
  603. आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृृणु॥७ ॥
  604. कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥९ ॥
  605. कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान्॥६ ॥
  606. तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥२५ ॥
  607. तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४ ॥
  608. त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।सात्त्विकी राजसी चैव तामसी चेति तां शृृणु॥२ ॥
  609. दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥२० ॥
  610. देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥१४ ॥
  611. मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते॥१६ ॥
  612. मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।परस्योत्सादानर्थं वा तत्तामसमुदाहृतम्॥१९ ॥
  613. यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥४ ॥
  614. यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥२७ ॥
  615. यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥२१ ॥
  616. यातयामं गतरसं पूति पर्युषितं च यत् ।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥१० ॥
  617. ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः ।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥१ ॥
  618. विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥१३ ॥
  619. श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥१७ ॥
  620. सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥१८ ॥
  621. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥३ ॥
  622. सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥२६ ॥
  623. ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३ ॥
  624. अधर्मं धर्ममिति या मन्यते तमसावृता ।सर्वार्थान्विपरीतांश्च बुदि्धः सा पार्थ तामसी॥३२ ॥
  625. अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥१४ ॥
  626. अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥७० ॥
  627. अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥१२ ॥
  628. अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥२५ ॥
  629. अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥२८ ॥
  630. असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति॥४९ ॥
  631. अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥५३ ॥
  632. इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया ।विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥६३ ॥
  633. इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥७४ ॥
  634. इदं ते नातपस्काय नाभक्ताय कदाचन ।न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७ ॥
  635. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१ ॥
  636. एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥६ ॥
  637. कच्चिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा ।कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय॥७२ ॥
  638. काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः ।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥२ ॥
  639. कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥९ ॥
  640. कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४ ॥
  641. चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥५७ ॥
  642. ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥१९ ॥
  643. ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥१८ ॥
  644. तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७ ॥
  645. तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१६ ॥
  646. तमेव शरणं गच्छ सर्वभावेन भारत ।तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥६२ ॥
  647. त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।यज्ञदानतपः कर्म न त्याज्यमिति चापरे॥३ ॥
  648. दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥८ ॥
  649. धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥३३ ॥
  650. न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।भविता न च मे तस्मादन्यः प्रियतरो भुवि॥६९ ॥
  651. न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः॥४० ॥
  652. न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥१० ॥
  653. न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥११ ॥
  654. नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ।स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥७३ ॥
  655. नियतं सङ्गरहितमरागद्वेषतः कृतम् ।अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥२३ ॥
  656. नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥७ ॥
  657. निश्चयं शृृणु मे तत्र त्यागे भरतसत्तम ।त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥४ ॥
  658. पञ्चैतानि महाबाहो कारणानि निबोध मे ।साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३ ॥
  659. पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥२१ ॥
  660. प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सत्त्विकी ॥३० ॥
  661. बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृृणु ।प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥२९ ॥
  662. बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥५१ ॥
  663. ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥५४ ॥
  664. ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥४१ ॥
  665. भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥५५ ॥
  666. मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥५८ ॥
  667. मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥६५ ॥
  668. मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्विक उच्यते॥२६ ॥
  669. य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥६८ ॥
  670. यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥५ ॥
  671. यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥४६ ॥
  672. यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥३७ ॥
  673. यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।क्रियते बहुलायासं तद्राजसमुदाहृतम्॥२४ ॥
  674. यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्॥२२ ॥
  675. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८ ॥
  676. यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्॥३९ ॥
  677. यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥५९ ॥
  678. यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥३४ ॥
  679. यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी॥३१ ॥
  680. यया स्वप्नं भयं शोकं विषादं मदमेव च ।न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥३५ ॥
  681. यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।हत्वाऽपि स इमाल्लोकान्न हन्ति न निबध्यते॥१७ ॥
  682. रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥२७ ॥
  683. राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥७६ ॥
  684. विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥५२ ॥
  685. विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।परिणामे विषमिव तत्सुखं राजसं स्मृतम्॥३८ ॥
  686. व्यासप्रसादात् श्रुतवानेतद्गुह्यमहं परम् ।योगं योगेश्वरात्कृष्णात्साक्षात् कथयतः स्वयम्॥७५ ॥
  687. शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२ ॥
  688. शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५ ॥
  689. शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥ ४३ ॥
  690. श्रद्धावाननसूयश्च शृृणुयादपि यो नरः ।सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥७१ ॥
  691. श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥४७ ॥
  692. संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन॥१ ॥
  693. सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥५६ ॥
  694. सर्वगुह्यतमं भूयः शृृणु मे परमं वचः ।इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४ ॥
  695. सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६ ॥
  696. सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥२० ॥
  697. सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥४८ ॥
  698. सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे ।समासेनैव कौन्तेव निष्ठा ज्ञानस्य या परा॥५० ॥
  699. सुखं त्विदानीं त्रिविधं शृृणु मे भरतर्षभ ।अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥३६ ॥
  700. स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥६० ॥
  701. स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥४५ ॥