Kandukastuti/Moola
कन्दुकस्तुतिः (श्रीकृष्णपद्यम्) — मूलम्
अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः । कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः॥१॥
कालघनालीकर्बुरकायः शरशतशकलित(सुररिपु)रिपुशतनिवहः । सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ २॥