bhagavadgitatatparya | Sarvamoola Grantha — Acharya Srimadanandatirtha

श्रीमद्भगवद्गीतातात्पर्यम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

न्यायदीपिका व्याख्या    

प्रथमोऽध्यायः

समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥

‘शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् ।
वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा ॥

न भारतसमं शास्त्रं कुत एवानयोः समम् ।
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥

देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः ।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ॥

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ॥

अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् ।
चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ॥’ इति ब्रह्माण्डे ।

तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोऽपि परमधर्मं नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोऽप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः । सर्वं चैतदत्रैवावगम्यते -

''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि'' ॥ (२-३३)

इत्यादिना युद्धस्य स्वधर्मत्वम् ।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ (१८-४६)

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (१८-४७)

सर्वगुह्यतमं भूयः शृृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (१८-६४-६६)

इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (११-५३, ५४)

इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं च ।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ (११-५५)

इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।

‘‘कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ।’’ (४-१५)

इत्यादिना ज्ञानिनोऽपि भगवत्कर्म ।

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (११-५२)

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (१८-६४)

दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ (१६-५)

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ (९-१३)

+‘‘दर्शयात्मानमव्ययं’’

दर्शयामास पार्थाय परमं रूपमैश्वरम् । (११-९)

इत्यादिनाऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च ।

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । (१०, २-४)

‘महर्षयः सप्त पूर्वे’ ... । (१०-६)

‘एतां विभूतिं योगं च’ ... । (१०-७)

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ (१०-८)

‘तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयामि’ (१०-११)

‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ । (१२-७)

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (५-२९)

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ (७-२)

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । (७-६,७)

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् ।
‘राजविद्या राजगुह्यम्’ ... । (९-१,२)

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ (९-४)

‘भूतभृन्न च भूतस्थः’ ... । (९-५)

‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ (११-४३)

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । (१४-१)

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ॥

सम्भवः सर्वभूतानां ततो भवति भारत । (१४-३)

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ॥

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । (१४-२७)

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ (१५, १६-२०)

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यम् ... ॥ (३-२२)

इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि ।

‘अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता’ । (ऋ.सं.१.१५६.१)

पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् ।
यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।
भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम् ।
भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ॥

ततोऽपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत्
मुक्तोऽपि तद्वशो नित्यं भूयो भक्तिसमन्वितः ।
साध्याऽऽनन्दस्वरूपैव भक्तिर्नैवात्र साधनम्
ब्रह्मरुद्ररमादिभ्योऽप्युत्तमत्वं स्वतन्त्रताम् ॥

सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् ।
निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ॥

स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः ।
तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ॥

अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः ।
अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः ।
नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः ।
तिरोहितं तथाऽप्येते शृण्वन्ति क्रीडयाऽथवा ॥

बहुवारतदभ्यासात्तिरोभावोऽपि नो भवेत् ।
यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ॥

पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।

‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना विरावत् ॥’ (ऋ. ७-४०-५)

‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ।
‘स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त

विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति’ ।

‘एको नारायण आसीन्न ब्रह्मा नेशानः’ ।
‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः’ ।
‘यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् ।
शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्ताऽस्य न क्वचित्’ ॥

सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः ॥ इति पैङ्गिश्रुतिः ।

‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’ । (ऋ.सं.६.९९.१)

‘अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः ।
न समो वाऽधिको वापि विद्यते तस्य कश्चन ।
नासीन्न च भविष्यो वा परतः स्वत एव च’ । इत्यादिश्रुतेश्च ।

‘यस्त्वात्मरतिरेव स्याद्’ इत्यादि तु मुक्तविषयम्।
यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि ।
तस्मात् कुर्वीत कर्माणीत्याह कृष्णोऽर्जुनं स्मयन् ॥ इति च स्कान्दे ।

‘‘ज्ञानयोगेन साङ्ख्यानाम्’’ इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया ।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । (३-५)

शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः । (३-८)

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्’ । (१८-६)

‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।’

न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित् ।
त्यागिनो यतयोऽपि स्युः सङ्कोचाद् बाह्यकर्मणाम् । इत्यादि ।

‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः’ इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ॥

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१ ॥

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२ ॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३ ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः॥४ ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५ ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६ ॥

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते॥७ ॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥८ ॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९ ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥१० ॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥११ ॥

सञ्जय उवाच

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१२ ॥

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥१३ ॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४ ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
प्रौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥१५ ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥१६ ॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७ ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८ ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९ ॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२० ॥

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत॥ २१ ॥

यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥२२ ॥

योत्स्यमानानवेक्षेऽहं य एतेत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥२३ ॥

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४ ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥२५ ॥

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥२६ ॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२७ ॥

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयत्सुं समुपस्थितम्॥ २८ ॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९ ॥

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३० ॥

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥३१ ॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥३२ ॥

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३ ॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४ ॥

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ ॥

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६ ॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७ ॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८ ॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥३९ ॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥४० ॥

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥४१ ॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२ ॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४ ॥

अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५ ॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥४६ ॥

सञ्जय उवाच

एवमुक्त्वाऽर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७ ॥

॥ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥